Friday, 7 June 2024

अन्नपूर्णास्तोत्रम्

अन्नपूर्णास्तोत्रम्

 नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी 
निर्धूताखिलघोरपावनकरी प्रत्यक्ष माहेश्वरी।
प्रालेयाचलवंशपावनकरी काशी पुराधीश्वरी।
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।।

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
 ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११॥ 

माता च पार्वती देवी पिता देवो महेश्वरः । 
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १२ ॥ ॥ 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष् श्रीमच्छङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥
….................................



 क्षमा-प्रार्थना -

आवाहनं न जानामि न जानामि विसर्जनम् । 
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ 

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर। 
यत् पूजितं महादेव! परिपूर्णं तदस्तु मे ॥ 

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
 त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥

यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ।

….................


 श्रीशिवमानस-पूजा

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।

जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम्।

 शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं 
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्ग‌काहलकला गीतं च नृत्यं तथा।

 साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया 
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।

 सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
 यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥

करचरणकृतं वाक्कायजं श्रवणनयनजं वा विहितमविहितं वा कर्मजं वा मानसं वापराधम् ।
 सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥ ॥ 

इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥

.....….........

No comments:

Post a Comment